Main Sloka (मूलम्)
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्॥
— विष्णुपुराण
Voice
Transliteration
tatkarma yanna bandhāya sā vidyā yā vimuktaye ।
āyāsāyāparaṃ karma vidyā’nyā śilpanaipuṇam ॥
— viṣṇupurāṇa
पदविभाग
तत् कर्म यत् न बन्धाय, सा विद्या या विमुक्तये।
आयासाय अपरं कर्म विद्या अन्या शिल्पनैपुणम्॥
अन्वय
यत् न बन्धाय (भवति) तत् (एव) कर्म। या विमुक्तये (कल्पिता) सा विद्या। अपरं कर्म आयासाय (भवति)। अन्या विद्या शिल्पनैपुणम् (मात्रम् भवति)।
प्रतिपदार्थ
1) यत् न बन्धाय (भवति) = यत् (पाप-पुण्यादिना) न बध्नाति, स्वतन्त्रतां न हरति ; that which is not for bondage.
2) तत् (एव) कर्म = तदेव कार्यं ; that (alone is) action, effort, activity
3) या विमुक्तये (कल्पिता) = या मुक्तिं ददाति ; that which (leads to) liberation
4) सा विद्या = तत् ज्ञानं ; that is learning, knowledge
5) अपरं कर्म = अन्यत् कर्म ; other work, activity
6) आयासाय (भवति) = श्रान्तये ; (is only) for waste of energy, exertion
7) अन्या विद्या = अन्यत् ज्ञानं ; other learning
8) शिल्पनैपुणम् (मात्रम् भवति) = केवलं क्रियाकौशलम् ; (is just mere) craftsmanship.
तात्पर्यम्
यत् कर्म पाप-पुण्यादिना न बध्नाति तदेव कर्म अवितथं कर्म भवति। अन्यत् कर्म श्रममात्रं भवति। या मुक्तिमार्गे नयति, सा विद्या अन्वर्था विद्या भवति। अन्यत् सर्वं केवलक्रियाकौशलम् भवति।
Meaning
Effort is that which does not make us bound (to punya and ppa). Learning is that which leads us to liberation. Rest of all activity is for exertion. And all other learning is mere craftsmanship.
स्वस्मै स्वल्पं समाजाय सर्वस्वं।
Transliteration:
svasmai svalpaṃ samājāya sarvasvaṃ
English Translation:
A little bit for yourself and everything for others!
Hindi Translation:
अपने लिए थोड़ा और दूसरों के लिए सब कुछ!
अन्ते वयं सर्वे कथा भवेम।
In the end, we all will be stories.
अंत में, हम सब कहानियों में बदल जायेंगे
यत् गच्छति तत् न कालः जीवनम्
जो बीत रहा है वो समय नहीं, जीवन है।
The one which is flowing is life not the time.